स्वपरिचयम्
🔔🔔
अभ्यासः (२५.१०.२०२०)
मम नाम सत्यनारायणः। अहं प्रातः सार्धपञ्चवादने उत्तिष्ठामि। मुखं प्रक्षालनं करोमि। जलं पिबामि। सप्तवादने दन्तधावनं स्नानं च करोमि। अष्टवादने पूजां करोमि। मन्त्रं पठामि। सपाद-अष्टवादने स्वल्पाहारं स्वीकरोमि। नववादने संस्कृतस्य पठनं करोमि।
मम गृहस्य पुरतः मार्गः अस्ति। मार्गतः बहुः जनाः गच्छन्ति। मार्गस्य दक्षिणतः विद्यालयं अस्ति। विद्यालयस्य पृष्ठतः क्रीडाङ्गणं अस्ति। विद्यालयस्य वामतः बसयानानि सन्ति।
अहं दशवादने मन्दिरं गच्छामि। मन्दिरतः ग्रन्थालयं गच्छामि। ग्रन्थालयतः वित्तकोषं गच्छामि। वित्तकोषतः शाकापणं गच्छामि। शाकापणतः गृहम् आगच्छामि।
अहं शीघ्रं न वदामि। अहं भ्रमणार्थं सायं उद्यानं गच्छामि। तत्र बहुजनाः आगच्छन्ति। अत्र उद्याने बालकाः, बालिकाः, युवकाः, युवत्यः, पुरुषाः, महिलाः, वृद्धाः च आगच्छन्ति।
सायं सार्धषड्वादने संस्कृतसम्भाषणवर्गं गच्छामि। तत्र संस्कृतेन सम्भाषणं करोति।
अहं अपि प्रयासः करोमि। अष्टवादने सम्भाषणं समाप्तं करोति।
पादोननववादने रात्रौ भोजनं करोमि। दशवादने शयनं करोमि। शयन समये देवं स्मरामि।
🙏
Comments
Post a Comment